संस्कृत-वेबफलकम्
Sanskrit site
उपक्रमणिका
Home
शोधपत्राणां विषयक्षेत्राणि
Call for papers
समितयः
Committees
कार्यक्रमः
Schedule
पुनरीक्षकप्रवेशः
Reviewer login
पञ्जीकरणम्
Registration
पत्रसमर्पणम्
Paper submission
सम्पर्कः
Contact

तृतीयं निखिल-संस्कृतच्छात्र-सम्मेलनम्



दिनाङ्कः - १३-१४ अक्टूबर, २०१६.

स्थानम् - विशिष्ट-संस्कृताध्ययन-केन्द्रम्,
जवाहरलाल-नेहरू-विश्वविद्यालयः,
नवदेहली -११००६७



संस्कृतच्छात्रेभ्यः सप्रमोदं ज्ञाप्यते यज्जवाहरलालनेहरूविश्वविद्यालयस्य विशिष्टसंस्कृताध्ययनकेन्द्रेण २०१६ ख्रीस्ताब्देऽक्टूबरमासस्य त्रयोदशचतुर्दश-दिनाङ्कयोर्दिनद्वयात्मकं तृतीयनिखिलसंस्कृतच्छात्रसम्मेलनमायोजयिष्यते। सम्मेलनमिदं संस्कृतभाषामाध्यमेनैव भवत्विति सङ्कल्पं मनसि निधाय संस्कृतशोधच्छात्राः शोधदृष्टिमवलम्ब्य समुन्नतशोधप्रविधिना भारतीयज्ञानपरम्पराया विभिन्नेष्वध्ययनक्षेत्रेषु शोधपत्राणि प्रस्तोतुं समामन्त्र्यन्ते। अवधेयं यत् सम्मेलनेऽस्मिन् यानि शोधपत्राणि चयनसमित्या प्रस्तुत्यर्थं संस्तोष्यन्ते, तान्येव शोधपत्राणि प्रस्तोष्यन्ते प्रकाशयिष्यन्ते च। सम्मेलनस्यास्य सम्पूर्तये साफल्याय च भवतां समेषामपि संस्कृतशोधच्छात्राणां सहयोगपुरस्सरं समुपस्थितिः सम्प्रार्थ्यते।

सम्मेलनप्रभारी
डॉ० सन्तोषकुमारशुक्लः
आचार्यः, वि.सं.अ.के., ज.ने.वि. नवदेहली

आयोजिका
तृतीयनिखिलसंस्कृतच्छात्रसम्मेलनसमितिः