Sutra: | धन्वन्तरिमभिवाद्य सुश्रुत उवाच- प्रागभिहितः ’प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुराहारदेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च, तथाह्याहारवैषम्यादवस्थ्यम्; तस्याशितपीतलीढखादितस्य नानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधविकल्पस्यानेकविधप्रभावस्य पृथक् पृथक् द्रव्यरसगुणवीर्यविपाककर्माणीच्छामि ज्ञातुं, न ह्यनवबुद्धस्वभावा भिषजः स |