Sutra: | तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमल प्रायाः, ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्रणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते, विदाहात् पित्तसञ्चयमापादयन्ति; स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति। ता एवौषधयः कालपरिमाणात् परिणतवीर्या बलवत्योहेमन्ते पवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति; स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहा |