Sutra: | ततः शुद्धदेहमामलकरसेनहरिद्रां मधुसंयुक्ता पाययेत्, त्रिफलाविशालादेवदारुमुस्तषायं वा, शालकम्पिल्लकमुष्कककल्कमक्षमात्रं वा, मधुमधुरमामलकरसेन हरिद्रायुतम्, कुटजकपित्थरोहीतकबिभीतकसप्तपर्णपुष्पकल्कं वा, निम्बारग्वधसप्तपर्णमूर्वाकुटजसोमवृक्षपलाशानां वा त्वक्पत्रमूलफलपुष्पकषायाणि, एते पञ्च योगाः सर्वमेहानामपहन्तारो व्याख्याताः॥ |