Sutra: | तत्र सर्वेषां सर्पाणां विषस्य सप्त वेगाः भवन्ति। तत्र दर्वीकराणां प्रथमेवेगे विषं शोणितं दूषयति, तत् प्रदुष्टं कृष्णतामुपैति,तेन कार्ष्ण्यं पिपीलिकापरिसर्पणमिव चाङ्गे भवति; द्वितीये मांसं दूषयति, तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे भवन्ति; तृतीयो मेदो दूषयति, तेन दंशक्लेदः शिरोगौरवं स्वेदश्चक्षुर्ग्रहणं च; चतुर्थे कोष्ठमनुप्रविश्य कफप्रधानान् दोषान् दूषयति, तेनतन्द्राप्रसेकसन्धिविश्लेषा भवन्ति; पञ्चमेऽस्थीन्यनुप्रविशति प्राणमग्निं च दूषयति, तेन पर्वभेदो हिक्का दाहश्च भवति;षष्ठेमज्जानमंनुप् |