Sutra: | तत्र य इमे गुणा वीर्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ, शीतपिच्छिलावम्बुगुणभूयिष्ठौ, पृथिव्यम्बुगुणभूयिष्ठः स्नेहः, तोयाकाशगुणभूयिष्ठं मृदुत्वं, वायुगुणभूयिष्ठंरौक्ष्यं, क्षितिसमीरणगुणभूयिष्ठं वैशद्यम्; विपाकावुक्तगुणौ। तत्र उष्णस्निग्धौ वातघ्नौ; शीतमृदुपिच्छिलाः पित्तघ्नाः; तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः; गुरुपाको वातपित्तघ्नः; लघुपाकः श्लेष्मघ्नः; तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः; पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां, स्निग्धरूक्षौ चक्षुषा; तीक्ष्ण |