Index Search for 'रोहन्ति;' |
Sutra: | तत्र वयःस्थानां दृढानां प्राणवतां सत्त्ववतां (आत्मवतां) च सुचिकित्स्या व्रणाः; एकस्मिन् वा पुरुषे यत्रैतद्गुणचतु्ष्टयं तस्य सुखसाधनीयतमाः। तत्र वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणारोहन्ति; दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति; प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते; सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति; तस्मादेतेषां सुखसाधनीयतमाः। |
Reference: | 1.1.23.3.0(पूर्व>सूत्र>कृत्याकृत्यविधिम्>सूत्र#3.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | कृत्याकृत्यविधिम् |
Search other sources: | search this word on other online resources
|