Sutra: | जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण, निर्वृत्तेषु क्षीरयवागूं,रोमशेषु सन्तानिकाम्, अरोमशेषु दध्युत्तरं, हरितपाण्डुषु दधि, तत्कषायसंसृष्टा वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु, पर्यागतेषु मदनफलमज्जवदुपयोगः। तद्वदेव कुटजफलविधानम्। कृतवेधनानामप्येष एव कल्पः। इक्ष्वाकुकुसुमचूर्णं वा पूर्ववदेवं क्षीरेण कासश्वासच्छर्दिकफरोगेषूपयोगः॥ |