Sutra: | तिर्यग्गानां तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्त्वसङ्ख्येयाः, ताभिरिदं शरीरं गवाक्षितं विबद्धमाततं च, तासां मुखानिरोमकूपप्रतिबद्धानि यैः स्वेदमभिवहन्ति रसं चाभितर्पयन्त्यन्तर्बहिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्याण्यन्यन्तः शरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि; तैरेव च स्पर्शं सुखमसुखं वा गृह्णीते। तास्त्वेताश्चतस्रो धमन्यः सर्वाड्गताः सविभागा व्याख्याताः॥ |