Sutra: | नानौषधसमवायात्त्रिदोषघ्नः, शुक्लत्वात् सौम्यः, तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा, आग्नेयौषधिगुणभूयिष्ठत्वात्; कटुक उष्णस्तीक्ष्णः पाचनो विलयनः शोधनोरोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्तापुंस्त्वस्य चातिसेवितः॥ |