Sutra: | तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकीभूतं युगपद्वातरक्तनिमित्तां वेदनां जनयतीति वातरक्तं; तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति। तस्य पूर्वरूपाणि तोददाहकण्डूशोफस्तम्भत्वक्पारुष्यसिरास्नायुधमनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात्पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु। तत्राप्रतिकारिणोऽपचारिणश्चरोगो व्यक्ततरः, तस्य लक्षणमुक्तं; तत्राप्रतिकारिणो वैकल्यं भवति॥ |