Sutra: | नाडीयन्त्राण्यनेकप्रकाराणि, अनेकप्रयोजनानि, एकतोमुखान्युभयतोमुखानि च, तानि स्रोतोगतशल्योद्धणार्थंरोगदर्शनार्थम्, आचूषणार्थं, क्रियासौकर्यार्थं चेति; तानि स्रोतोद्वरापरिणाहानि यथायोगदीर्घाणि च। तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयन्त्राण्यलाबूशॄङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः॥ |