Sutra: | तत्र पाददाहपादहर्षचिप्पविसर्पवातशोणिततवातकण्टकविचर्चिकापाददारीप्रभृतिषु क्षिप्रमर्मण उपरिष्टाद् द्वयङ्गुले व्रीहिमुखेन सिरां विध्येत,
श्लीपदे तच्चिकित्सिते यथा वक्ष्यते, क्रोष्टुकशिरः खञ्जपङ्गुलवातवेदनासु जङ्घायां गुल्फस्योपरि चतुरङ्गुले, अपच्यामिन्द्रबस्तेरधस्ताद्द्व्यङ्गुले,
जानुसन्धेरूपर्यधो वा चतुरङ्गुले गृध्रस्यां, ऊरुमूलसंश्रितां गलगण्डे, एतेनेतरसक्थि बाहू च व्याख्यातौ; विशेषतस्तु वामबाहौ कूर्परसन्धेरभ्यन्तरतो
बाहुमध्ये प्लीह्नि कनिष्ठिकानामिकयोर्मध्ये वा, एवं दक्षिणबाहौ यकृद्दाल्ये (क |