Sutra: | केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां च समवायात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा कालान्तरप्राणहराणि, द्विहीनानां विशल्यप्राणहराणि, त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेवरुजाकराणीति। नैवं, यतोऽस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति॥ |