Sutra: | नेत्याहुरन्ये।रसास्तु प्रधानं; कस्मात्? आगमात्, आगमो हि शास्त्रमुच्यते; शास्त्रे हि रसा अधिकृताः, यथा- रसायत्त आहार इति, तस्मिंस्तु प्राणाः; उपदेशाच्च, उपदिश्यन्ते हि रसाः, यथा- मधुराम्ललवणा वातं शमयन्ति; अनुमानाच्च, रसेन ह्यनुमीयते द्रव्यं, यथा- मधुरमिति; ऋषिवचनाच्च, ऋषिवचनं वेदो यथा- किञ्चिदिज्यार्थं मधुरमाहरेदिति, तस्माद्रसाः प्रधानं; रसेषु गुणसंज्ञा। रसलक्षणमन्यत्रोपदेक्ष्यामः॥ |