Sutra: | अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानिवेक्ष्यामः- तत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च, मधुरकटुकौ च सर्वतः, मधुरतिक्तौ रसविपाकाभ्यां, मधुरकषायौ चाम्ललवणौ रसतः, अम्लकटुकौ रसविपाकाभ्यां, अम्लतिक्तावम्लकषायौ च सर्वतः, लवणकटुकौ रसविपाकाभ्यां, लवणतिक्तौ लवणकषायौ च सर्वतः, कटुतिक्तौरसवीर्याभ्यां, कटुकषायौ च तिक्तकषायौ रसतः। |