Sutra: | तत्र स्थूलसान्द्रमन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवं; तत् स्थैर्यबलगौरवसङ्घातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति। शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलंरसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं; तत् स्नेहनह्लादनक्लेदनबन्धनविष्यन्दनकरमिति। उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं; तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति। सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषतिक्तं, विशेषतः कषायमिति वायवीयं, तद्वैशद |