Sutra: | तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्घ एव; तल्लिङ्गाच्च महतस्तल्लक्षण एवाहङ्कार उत्पद्यते, स त्रिविधो वैकारिकस्तैजसो भूतादिरिति; तत्र वैकारिकादहङ्कारात् तैजससहायात् तल्लक्षणान्येवैकादशेन्द्रियाण्युत्पद्यन्ते, तद्यथा-श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाग्घस्थपायुपादमनांसीति; तत्र पूर्वाणि पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि,उभयात्मकं मन: ; भूतादेरपि तैजसहायात् तल्लक्षणान्येव पञ्चतन्मात्राण्युत्पद्यन्ते -शब्दतन्मात्रं, रूपतन्मात्रं, स्पर्शतन्मात्रं,रसतन्मात्रं, गन्धतन्मात्रमिति; तेषां व |