Sutra: | सर्वेषां च व्याधीनां वातपित्तश्लेष्माणौ एव मूलं, तल्लिङ्गत्वाद्दृष्टफलत्वादागमाच्च। यथा हि कृत्स्नं विकारजातं विश्वरूपेणाववस्थितमव्यतिरिच्य वातपित्तश्लेष्माणो वर्तन्ते। दोषधातुमलसंसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः। दोष दूषितेष्वत्यर्थं धातुषु संज्ञा-रसजोऽयं, शोणितजोऽयं, मांसजोऽयं, मेदोजोऽयं, अस्थिजोऽयं, मज्जोऽयं, शुक्रजोऽयं व्याधिरिति। |