Sutra: | आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धाः; तस्मादाप्योरसः। परस्परसंसर्गात् परस्पानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणम्। स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते; तद्यथा- मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति। ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते। तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः; भूम्यग्निगुणबाहुल्यादम्लः; तोयाग्निगुणबाहुल्याल्लवणः; वाय्वग्निगुणबाहुल्यात्कटुकः; वाय्वाकाशगुणबाहुल्यातिक्तः; पृथिव् |