Sutra: | नेत्याहुरन्ये। विपाकः प्रधानमिति। कस्मात्? सम्यङ्मिथ्याविपक्वत्वादिह सर्वद्रव्याण्यभ्यवहृतानि सम्यक् मिथ्या विपक्वानि गुणं दोषं वा जनयन्ति। तत्राहुरन्ये- प्रतिरसं पाक इति। केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति। तत् तु न सम्यक्, भूतगुणागमाच्चान्योऽम्लो विपाको नास्ति; पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात्। यद्येवं लवणोऽप्यन्यः पाको भविष्यति, श्लेष्मा हि विदग्धो लवणतामुपैति। मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः; दृष्टान्तं चोपदिशन्ति- यथा तावत् क्षीरं मुखागतं पच्यमानं मधुर |