Sutra: | तत्र आन्तरीक्षं चतुर्विधम्। तद्यथा- धारं, कारं, तौषारं, हैममिति। तेषां धारं प्रधानं, लघुत्वात्। तत् पुनर्द्विविधं- गाङ्गं सामुद्रं चेति। तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति। तयोर्द्वयोरपि परीक्षणं कुर्वीत्- शाल्योदनपिण्डमकुथितमविदग्धंरजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत्, स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं; वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात्; तन्नोपादेयम्। सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति। गाङ्गं पुनः प्रधानं, तदुपाददीताश्वयुजे मासि |