Sutra: | ततः शस्त्रमवचार्यशीताभिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्याङ्गुल्या व्रणमभिमृद्य(ज्य), प्रक्षाल्य कषायेण, प्रोतेनोदकमादाय, तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां वर्तिं प्रणिदध्यात्; ततः कल्केनाच्छाद्य घनां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात् वेदनारक्षोघ्नैर्धूपैर्धूपयेत्रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत॥ |