Sutra: | रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते। तौ षष्ठौ मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तेनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृ्षय कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत, प्रतनुकं सूच्या, बहलमारया; पूर्वं दक्षिणं कुमारस्य, वामं कुमार्याः; ततः पिचुवर्तं प्रवेशयेत्॥ |