Sutra: | तेषु वातवर्णवेदनं वातेन, पित्तवर्णवेदनं पितेन, श्लेष्मवर्णवेदनं श्लेष्मणा, कुणपगन्ध्यनल्पं चरक्तेन, ग्रन्थिभूतं श्लेष्मवाताभ्यां, पूतिपूयनिभं पित्तश्लेष्मभ्यां, क्षीणं प्रागुक्तं पित्तमारुताभ्यां, मूत्रपुरीषगन्धि सन्निपातेनेति। तेषु कुणपग्रन्थिपूतिपूयक्षीणरेतस: कृच्छ्रसाध्या:, मूत्रपुरीषरेतसस्त्वसाध्या: इति॥ |