Sutra: | तत्र तेजोधातुर्वर्णानां प्रभव:, स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भ गौरं करोति, पृथिवीधातुप्राय: कृष्णं, पृथिव्याकाशधातुप्राय: कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम्। यादृग्वर्णमाहारमुपसेवते गर्भिणी तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेव रक्तानुगतंरक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्षं,वातानुगतं विकृताक्षमिति॥ |