Sutra: | किलासमपि कुष्ठविकल्प एव। तत्त्रिविधं- वातेन, पित्तेन श्लेष्मणा चेति। कुष्ठकिलासयोरन्तरं- त्वग्गतमेव किलासमपरिस्रावि च। तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च, पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहं च, श्लेष्मणापि श्वेतं स्निग्धं बहलं कण्डूमच्च। तेषु सम्बद्धमण्डलमन्तेजातंरक्तरोम चाऽसाध्यमग्निदग्धं च॥ |