Sutra: | मण्डलिनस्तु- आदर्शमण्डलः, श्वेतमण्डलो,रक्तमण्डलः, चित्रमण्डलः, पृषतो, रोध्रपुष्पो, मिलिन्दको गोनसो, वृद्धगोनसः, पनसो, महापनसो, वेणुपत्रकः, शिशुको, मदनः, पालिन्दिरः, पिङ्गलः, तन्तुकः, पुष्पपाण्डुः, षडङ्गो, अग्निको, बभ्रुः, कषायः, कलुषः, पारावतो, हस्ताभरणः, चित्रक, एणीपद इति ॥ |