Sutra: | तत्र सप्त महाकुष्ठानि, एकादश क्षुद्रकुष्ठानि, एवमष्टादश कुष्ठानि भवन्ति। तत्र महाकुष्ठान्यरुणोदुम्बरर्ष्य(र्क्ष) जिह्वकपालकाकणपुण्डरीकदद्रुकुष्ठानीति। क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्कं चर्मदलं विसर्पः परिसर्पः सिध्मं विचर्चिका किटिभं(मं) पामारकसा चेति॥ |