Sutra: | द्वौ प्रमेहौ भवतः- सहजोपथ्यनिमित्तश्च। तत्र सहजो मातृपितृबीजदोषकृतः अहिताहारजोऽपथ्यनिमित्तः तयोः पूर्वोणोपद्रुतः कृशो रुक्षोऽल्पाशी पिपासुर्भृशं परिसरणशीलश्चभवति। उत्तरेण स्थूलो बह्वाशी स्निग्धः शय्यासनस्वप्नशीलः प्रायेणिति। तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सितेन, स्थूलमपतर्पणयुक्ताभिः॥ |