Sutra: | तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनंभवति दक्षिणाक्षिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति वाहुल्याच्च पुन्नामधेयेषु द्रव्येषु दौर्हृदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामन्येव प्रसन्नमुखवर्णा चभवति तां ब्रूयात् पुत्रमियं जनयिष्यतीति, तद्विपर्यये कन्यां, यस्याः पार्श्वद्वयमुन्नतं पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं च तस्या नपुंसकमिति विद्यात्, यस्या मध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत इति॥ |