Sutra: | तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्वयङ्गुलसन्निविष्टकर्णिकानि कङ्कशयेनबर्हिणपक्षनाडीतुल्यप्रवेशानिमुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि। तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसंमितेन प्रसृतेन संमितौ प्रसृतौद्वौ चत्वारोऽष्टौ च विधेयाः॥ |