Index Search for 'दर्शयेत्,' |
Sutra: | तत्र पुष्पफलालाबूकालिन्दकत्रपुसैर्वारुककर्कारुकप्रभॄतिषु छेद्यविशेषान्दर्शयेत्, उत्कर्तनपरिकर्तनानि चोपदिशेत्; दृतिबस्तिप्रसेवकप्रभॄतिषूदकपङ्कपूर्णेषु भेद्ययोग्याम्; सरोम्णि चर्मण्यातते लेखस्य; मृतपशुसिरासूत्पलनालेषु च वेध्यस्यः, घुणोपहतकाष्ठवेणुनलनालीशु्ष्कालाबूमुखेष्वेष्यस्य; पनसबिम्बीफलमज्जमृतपशुदन्तेष्वाहार्यस्य; मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य; सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य; पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां; मृदुषु मांसखण्डेष्वग्निक्षारयोग्याम् |
Reference: | 1.1.9.4.0(पूर्व>सूत्र>योग्यासूत्रीयम्>सूत्र#4.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | योग्यासूत्रीयम् |
Search other sources: | search this word on other online resources
|