Index Search for 'दद्यात्,' |
Sutra: | अथ जलौककोवसेवकसाध्यव्याधितमुपवेश्य सवेश्य वा, विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात्। गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभि रोगं ग्राहयेत्। श्लक्ष्णशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपावृणुयात्; अगृह्णन्त्यै क्षीणबिन्दुं शोणितबिन्दुं वादद्यात्, शस्त्रपदानि वा कुर्वीत्; यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत्॥ |
Reference: | 1.1.13.19.0(पूर्व>सूत्र>जलौकावचारणीयम्>सूत्र#19.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | जलौकावचारणीयम् |
Search other sources: | search this word on other online resources
|