Index Search for 'जानुमात्रा' |
Sutra: | अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहा नामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात। अतो विपरीतानि विरेचनानि तत्र सुकुमारं कृशंबालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठ पाययेत् पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत। तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्। ततः प्रवृत्तहृल्लासं ज्ञात्वाजानुमात्रा |
Reference: | 1.1.33.7.0(पूर्व>सूत्र>अवारणीयम्>सूत्र#7.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | अवारणीयम् |
Search other sources: | search this word on other online resources
|