Sutra: | तत्र पुष्पफलालाबूकालिन्दकत्रपुसैर्वारुककर्कारुकप्रभॄतिषुछेद्यविशेषान् दर्शयेत्, उत्कर्तनपरिकर्तनानि चोपदिशेत्; दृतिबस्तिप्रसेवकप्रभॄतिषूदकपङ्कपूर्णेषु भेद्ययोग्याम्; सरोम्णि चर्मण्यातते लेखस्य; मृतपशुसिरासूत्पलनालेषु च वेध्यस्यः, घुणोपहतकाष्ठवेणुनलनालीशु्ष्कालाबूमुखेष्वेष्यस्य; पनसबिम्बीफलमज्जमृतपशुदन्तेष्वाहार्यस्य; मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य; सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य; पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां; मृदुषु मांसखण्डेष्वग्निक्षारयोग्याम् |