Index Search for 'क्षिप्रोत्थानोऽवलम्बी' |
Sutra: | तत्र वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः पित्तश्वयथुः पीतः सरक्तो वा मृदुः शीघ्रानुसार्यूषादयश्चात्र वेदनाविशेषः सन्निपातश्वयथुः सर्ववर्णवेदनः विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसेवनात् प्रकुथितोदकावगाहनात् सविषसत्त्वदिग्धचूर्णेनावचूर्णनाद्वा सविषमूत्रपुरीषशुक्रस्पृष्टानां वा तृणकाष्ठादीनां संस्पर्शनात् स तु मृदुःक्षिप्रोत्थानोऽवलम्बी चलोऽचलो वा दाहपाकरागप्रायश्च भवति॥ |
Reference: | 1.1.23.5.0(पूर्व>सूत्र>कृत्याकृत्यविधिम्>सूत्र#5.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | कृत्याकृत्यविधिम् |
Search other sources: | search this word on other online resources
|