Sutra: | एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम्। तत्र पुरुषग्रहणात् तत्संभवद्रव्यसमूहो भूतादिरुक्त स्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मासास्थिसिरास्नायुप्रभृतयः, व्याधिग्रहणात् वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः,ओषधग्रहणात् द्रव्यरसगुणवीर्यविपाकानामादेशः, क्रियाग्रहणाच्छेद्यादीनि स्नेहादीनि च कर्माणि व्याख्यातानि, कालग्रहणात् सर्वक्रियाकालानामादेशः॥ |