Sutra: | वाराहीमूलतुलाचूर्णं कृत्वा ततो मात्रां मधुसंयुक्तां पयसाऽलोड्य पिबेत् जीर्णे पयः सर्पिरोदन इत्याहारः प्रतिेषेधोऽत्र पूर्ववत् प्रयोगमिममुपसेवमानो वर्षशतमायुरवप्नोति स्त्रीषु चाक्षयताम् एतेनैव चूर्णेन पयोऽवचूर्ण्य शृतशीतमभिमिथ्यामुत्पाद्य मधुयुतमुपयुञ्जीत सायं प्रातरेककालं वा जीर्णे पयः सर्पिरोदन इत्याहारःएवं मासमुपयुज्य वर्षशतायुर्भवति। |