Sutra: | निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति, सा स्वभावतएव सर्वप्राणिनोऽभिस्पृशति। तत्र यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्राऽभवत्यनवबोधिनी, सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वभूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मनिलबहुलानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति॥ |