Sutra: | तत्र विडङ्गतण्डूलचूर्णमाहृत्य यष्टीमधुकमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातकक्वाथेन वा एवमेते पञ्च प्रयोगा भवन्ति। जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात्।एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारणशक्तिं जनयन्ति। मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति॥ |