Index Search for 'उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन' |
Sutra: | स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति;उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति; जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसंज्ञाने वर्तते; शिरःस्थः स्नेहसंतर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोति। सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति। |
Reference: | 1.1.21.14.0(पूर्व>सूत्र>व्रणप्रश्नम्>सूत्र#14.0) |
Tantra: | पूर्व |
Sthana: | सूत्र |
Adhyaya: | व्रणप्रश्नम् |
Search other sources: | search this word on other online resources
|