Sutra: | इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति, दोषोपचयप्रकोपोपशमनिमित्तं ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः तद्यथा भाद्रपदाश्वयुजौ वर्षाः कार्तिकमार्गशीर्षौ शरत् पौषमाघौ हेमन्तः फाल्गुनचैत्रो वसन्तः वैशाखज्येष्ठौ ग्रीष्मः आषाढश्रावणौ प्रावृडिति॥ |