Sutra: | तत्र रक्तपित्त प्रसादकृदालेपः; प्रदेहो वातश्लेष्मप्रशमनः शोधनो रोपणः शोफवेदनापहश्च; तस्योपयोगः क्षताक्षतेषु, यस्तु क्षतेषूपयुज्यते स भूयः कल्कइति संज्ञां लभते निरुद्धालेपनसंज्ञः; तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति॥ |