Sutra: | न चायुर्वेदशास्त्रेषूपदिश्यन्ते सर्वगता: क्षेत्रज्ञा नित्याश्च; असर्वगतेषु च क्षेत्रज्ञेषु नित्यपुरुषख्यापकान् हेतूनुदाहरन्ति;आयुर्वेदशास्त्रसिद्धान्तेष्वसर्वगता: क्षेत्रज्ञा नित्याश्च, तिर्यग्योनिमानुषदेवेषु सञ्चरन्ति धर्माधर्मनिमित्तं; त एतेऽनुमानग्राह्या: परमसूक्ष्माश्चेतनावन्त: शाश्वता लोहितरेतसो: सन्निपातेष्वभिव्यज्यन्ते, यतोऽभिहितं -’पञ्चमहाभूतशरीरिसमवाय: पुरुष: ’ इति; स एष कर्मपुरुषश्चिकित्साधिकृत:॥ |