Sutra: | तद्यथा- १. मधुराम्लः, २. मधुरलवणः, ३. मधुरकटकः, ४. मधुरतिक्तः, ५. मधुरकषायः, एते पञ्चानुक्रान्ता मधुरेण; १. अम्ललवणः, २. अम्लकटुकः, ३. अम्लतिक्तः, ४. अम्लकषायः, एते चत्वारोऽनुक्रान्ताअम्लेन; १. लवणकटुकः, २. लवणतिक्तः, ३. लवणकषायः, एते त्रयोऽनुक्रान्ता लवणेन, १. कटुतिक्तः, २. कटुकषायः, द्वावेतावनुक्रान्तौ कटुकेन; १.तिक्तकषाय एक एवानुक्रान्तस्तिक्तेन; एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः॥ |