Sutra: | द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे। तद्यथा- अधिकरणं, योगः, पदार्थः, हेत्वर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, प्रदेशः, अतिदेशः, अपवर्गः, वाक्यशेषः, अर्थापत्तिः, विपर्ययः, प्रसङ्गः, एकान्तः,अनेकान्तः, पूर्वपक्षः, निर्णयः, अनुमतं, विधानम्, अनागतावेक्षणम्, अतिक्रान्तावेक्षणं, संशयः, व्याख्यानं, स्वसंज्ञा, निर्वचनं, निदर्शनं, नियोगः, विकल्पः, समुच्चयः, ऊह्यमिति॥ |