Sutra: | ततः प्रशस्तेषु तिथिकरणमुहूर्तेनक्षत्रेषु दक्ष्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्चयित्वा, कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखमातु्रमुपवेश्य यन्त्रयित्वा, प्रत्यङ्मुखे वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्,अनुलोमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं वा शस्त्रपदमुक्तम्॥ |