उद्देश्यम्
’प्रयोजनमनुदिश्य न मन्दोऽपि प्रवर्तते’ इति धिया किमपि प्रयोजनं मनसि निधायैव इयं परिषद् सङ्कल्पिता । अस्माकं केन्द्रे सर्वे छात्रा मिथः साहाय्येन सरलं शुद्धं संस्कृतं वक्तुं प्रभवेयुरित्यस्ति तच्च प्रयोजनं येनास्माभिरेकस्याः परिषद आवश्यकता नितान्तमनुभूता । सेयं परिषद् ’जे.एन्.यू. वाग्वर्धिनी परिषद्’ इति नाम्ना प्रतिष्ठापिता । न केवलमस्मत्केन्द्रीयाश्छात्रा उतान्येऽपि जवाहरलालनेहरूविश्वविद्यालयच्छात्रा अत्र संस्कृतं शिक्षन्ते। अनया परिषदा छात्राः पारस्परिकज्ञानवितरणेन सरलरीत्या संस्कृतमधिगच्छन्ति अपि च, विविधशैक्षणिकसांस्कृतिककार्यक्रमस्पर्धादीनामायोजनमाध्यमेन तेषां वैयक्तिकप्रतिभाया विकासः सम्भवति ।