Sutra: | तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति तद्यथा अप्रवृतिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्तियोगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्-आध्मानम् परिकर्तिका परिस्त्रावो हृदयोपसरणमङ्ग्प्रहो जीवादानं विभ्रंशः स्तम्भः श्लमश्चेत्यपद्रवाः । |